________________ (239) * व्युदस्तपः / 3 / 3 / 87 / . आभ्यां तपतेः कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति / वितपते, उत्तपते सूर्यः / वितपते, उत्तपते पाणिम् / प्रलम्भे गृधि-वञ्चः / 3 / 3 / 89 / आभ्यां णिगन्ताभ्यां प्रलम्भने वर्तमानाभ्यां कर्तर्यात्मनेपर्द भवति / बटुं गर्धयते वञ्चयते वा / प्रलम्भ इति किम् ? श्वानं गर्धयति। लीङ्लिनोऽर्चाभिभवे चाचाकर्तर्यपि / 3 / 3 / 90 / अभिभव-प्रलम्भनार्थाभ्यामाभ्यां कर्तर्यात्मनेपदं भवति / आकारश्चानयोरकर्तर्यपि भवति / रजोहरणेन आलापयते / श्येनः वर्तिकामपलापयते / कस्त्वामुल्लापयते / स्मिङः प्रयोक्तुः स्वार्थे / 3 / 3 / 91 / प्रयोक्तृतो यः स्वार्थः स्मयः, तदर्थाद् णिगन्तात् स्मिकः कर्तर्यात्मनेपदं भवति, आञ्चाकर्तर्यपि / जटिलो विस्मापयते / प्रयोक्तु: स्वार्थ इति किम् ? रूपेण विस्माययति / बिभेतीष् च / 3 / 3 / 92 / प्रयोक्तुः यः स्वार्थस्तदर्थाद् णिगन्ताद् बिभेतेः कर्तर्यात्मनेपदं भवति, आञ्चाकर्तर्यपि, पक्षे भीषादेशः। मुण्डो भीषयते, भापयते / स्वार्थ इत्येव कुञ्चिकया भाययति / मिथ्याकृगोऽभ्यासे / 3 / 3 / 93 /