________________ (238) ज्ञः / 3 / 3 / 82 / / जानातेः कर्मण्यसति कर्तर्यात्मनेपदं भवति / सर्पिषो जानीते। कर्मण्यसतीत्येव तैलं सर्पिषो जानाति / उपात् स्थः / 3 / 3 / 83 / - उपपूर्वात् तिष्ठतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति / योगे योगे उपतिष्ठते / कर्मणि तु राजानमुपतिष्ठति / समो गमृच्छिपच्छिश्रुवित्स्वरत्यतिदृशः। 3 / 3 / 84 / ___ सम्पूर्वेभ्य एभ्यः कर्मण्यसति कर्तर्यात्मनेपदं भवति / संगच्छते / समृच्छते / सम्पृच्छते / संशणुते / संवित्ते / संस्वरते / समियते / सम्पश्यते / कर्मणि सति तु मैत्रं संगच्छति / / वेः कृगः शब्दे चानाशे / 3 / 3 / 85 / अनाशार्थाद् विपूर्वाद् कृगः कर्तर्यात्मनेपदं भवति, कर्मण्यसति शन्दे च कर्मणि / विकुर्वते सैन्धवाः / क्रोष्टा स्वरान् विकुरुते / शब्दे चेति किम् मृदं विकरोति / अनाश इति किम् ? अध्याय विकरोति / आङो यमहनः स्वेऽङ्गे च / 3 / / / 86 / आङ्पाभ्यां यम्हन्भ्यां कर्मण्यसति स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति / आयच्छते, आहते / आयच्छते आहते चा पादम् / स्वेऽङ्गे चेति किम् ? आयच्छति रन्जुम् /