________________ (227) सेवा महामात्रानुपकुरुते / साहसमविचार्य प्रवृत्तिः परदारान् प्रकुरुते / प्रतियत्नः गुणान्तराधानमेधोदकमुपस्कुरुते / प्रकथनम् परापवादान् प्रकुरुते / उपयोगो धर्मादिषु विनियोगः शतं प्रकुरुते / अधेः प्रसहने / 3 / 3 / 77 / .. प्रसहने वर्तमानादधेः परात् कृगः कर्तर्यात्मनेपदं भवति / प्रसहनं परेणाभिभवः, परस्य पराजयो वा / तं हा अधिचक्रे / प्रसहनं किम् ? तमधिकरोति / दीप्तिज्ञानयत्नविमत्युपसंभाषणोपमन्त्रणे वदः / 3 / 3 / 78 / ___ एषु गम्यमानेषु वदतेः कर्तर्यात्मनेपदं भवति / दीप्तिर्भासनं विद्वान् वदते स्याद्वादे / ज्ञाने धीमान् तत्त्वार्थे वदते / यत्ने तपसि वदते / नानामतिः विमतिः धर्मे विवदन्ते / उपसंभाषणमुपसान्त्वनं कर्मकरानुपवदते / उपमन्त्रणं रहस्युपच्छन्दनं कुलभार्यामुपवदते / . व्यक्तवाचा सहोक्तौ / 3 / 3 / 79 / ... __ व्यक्तवाचो रूड्या मनुष्यादयः तेषां सम्भूयोच्चारणार्थाद वदतेः कर्तर्यात्मनेदं भवति / सम्प्रवदन्ते ग्राम्याः / व्यक्तवाचामिति किम् ? शुकाः संप्रवदन्ति / 'विवादे वा वाच्यम्' विप्रवदन्ते, विप्रवदन्ति वा मौहूर्तिकाः। . .. .. . अनोः कर्मण्यसति / 3 / 3 / 81 / . . व्यक्तवाचामर्थे वर्तमानादनुपूर्वाद् वदतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति / अनुवदते। कर्मण्यमतीति किम् ? उक्तमनुवदति।