________________ (23.6) सन्नन्तात् शृणोतेः कर्तर्यात्मनेपदं भवति, न तु आङप्रतिपूर्वात् / गुरुं शुश्रूषते / अनाङ्मतेरिति किम् ? आशुश्रषति / प्रतिशुश्रूषति / स्मृदृशः / 3 / 3 / 72 / - आभ्यां सन्नन्ताभ्यां कर्तर्यात्मनेपदं भवति / सुस्मूर्षते / दिदृक्षते / ___ शको जिज्ञासायाम् / 3 / 3 / 73 / जिज्ञासायां वर्तमानात् सन्नन्तात् शके: कर्तर्यात्मनेपदं भवति। 'विद्यां शिक्षते / जिज्ञासायामिति किम् ? शिक्षति / प्राग्वत् / 3 / 3 / 74 / सन्प्रत्ययात् पूर्वो यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं भवति / शिशयिषते / अश्वेन संचिचरिषते / आमः कृगः / 3 / 3 / 75 / आमः परादनुप्रयुक्तात् कृग आम एव प्राग् यो धातुस्तस्मादिव कर्तर्यात्मनेपदं भवति / स्याच्च न स्यादिति विधिनिषेधौ / ईहाञ्चक्रे / बिभराञ्चक्रे, बिभराञ्चकार / कृग इति किम् ? ईक्षामास, ईक्षाम्बभूव / गन्धनावक्षेपसेवासाहसप्रतियत्नप्रकथनोपयोगे। 3 / 3.176 / एतदर्थात् करोतेः कर्तर्यात्मनेपदं भवति / गन्धनं द्रोहेण 'परदोषोद्घाटनमुत्कुरुते / अवक्षेपः कुत्सनम्-दुर्वृत्तानवकुरुते /