________________ ( 235) ... झीप्सा आत्मप्रकाशनम् , स्थेयः सभ्यः / ज्ञीप्सायां स्थेये च विषये स्थाधातोः कर्तर्यात्मनेपदं भवति / तिष्ठते कन्या च्छा. त्रेभ्यः / त्वयि तिष्ठते विवादः / प्रतिज्ञायाम् / 3 / 3 / 65 / - एतदर्थे स्थाधातोः कर्तर्यात्मनेपदं भवति / नित्यं शब्दमातिष्ठन्ते वैयाकरणाः। समो गिरः। 3 / 3 / 66 / सम्पूर्वाद् गिरतेः कर्तर्यात्मनेपदं भवति, प्रतिज्ञायाम्। स्याद्वाद संगिरन्ते जैनाः / 'अवादपि वक्तव्यम्' अवगिरते। निह्नवे ज्ञः / 3 / 3 / 68 / निह्नवोऽपलापः, तवृत्ताधातोः कर्तर्यात्मनेपदं भवति / शतमपजानीते। संप्रतेरस्मृतौ / 3 / 3 / 69 / . स्मृतेरन्यार्थात् संप्रतिभ्यां परात् ज्ञाधातोः कर्तर्यात्मनेपदं भवति / अनेकान्तं संजानीते, प्रतिमानीते / स्मृतौ तु मातु: संजानाति / - अननोः सनः / 3 / 3 / 70 / सन्नन्ताद् ज्ञाधातोः कर्तर्यात्मनेपदं भवति, न तु अनुपूर्वात् / धर्म निज्ञासते / अननोरिति किम् ? धर्ममनुनिज्ञासति / / श्रुवोऽनाङ्-प्रतेः / 3 / 3 / 71 / /