________________ (243) चल्याहारार्थेभ्य इडादिभ्यश्च णिगन्तेभ्यः कर्तरि परस्मैपदं भवति / चलयति / कम्पयति / भोजयति, आशयति चैत्रमन्नं मैत्रः / सूत्रमध्यापयति शिष्यम् / रविः पद्मं बोधयति / योधयति / प्रावयति / द्रावयति / स्रावयति / नाशयति / जनयति / इति पदविभागप्रक्रिया समाप्ता / अथ भावकर्मप्रक्रिया। -news क्यः शिति / 3 / 4 / 70 / भावकर्मविहिते शिति प्रत्यये परे धातुभ्यः क्यः प्रत्ययो भवति / तत्साप्यानाप्यात् कर्मभावे कृत्यक्तखलाश्च / 3 / 3 / 21 / तदित्यात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद् धातोः कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे भवन्ति / कर्मणि तु युष्मदस्मद्भ्यां सामानाधिकरण्यसम्भवाद् एक-द्वि-बहुवचनादि युष्मदस्मत्सम्बन्धि भवति, भावे तु युष्मदस्मद्भ्यामसामानाधिकरण्यात् अन्यसम्बन्धी एव प्रत्ययस्तत्रापि क्रियायाः प्राधान्यात् तस्याश्चैकत्वाद्भावे एकवचनमेव / 'रिः शक्याशीर्ये ' इति रिः क्रियते कटः चैत्रेण / गम्यसे त्वं मैत्रेण। शय्यते मैत्रेण इत्यादीनि उदाहर्तव्यांनि / क्रियेते क्रियन्ते / क्रियेत / क्रियताम् / अक्रि