________________ (233) आङो ज्योतिरुद्गमे / 3 / 3 / 52 / चन्द्राद्युद्गमार्थादाङ्पूर्वात् क्रमेः कर्तर्यात्मनेपदं भवति। आक्रमते चन्द्रः सूर्यो वा / ज्योतिरुद्गम इति किम् ? आक्रामति कुतुपं बटुः / दागोऽस्वास्यप्रसारविकाशे / 3 / 3 / 53 / स्वास्यप्रसारविकाशादन्यत्रार्थे वर्तमानाद् दागः कर्तर्यात्मनेपदं भवति / आदत्ते विद्याम् / स्वास्यप्रसारविकाशवर्जनं किम् ? उष्ट्रो मुखं व्याददाति / कूलं व्याददाति / नु-प्रच्छः / 3 / 3 / 54 / आङपूर्वाभ्यामाभ्यां कर्तर्यात्मनेपदं भवति। आनुते शृगालः / आपृच्छते गुरून् / . गमेः शान्तौ / 3 / 3 / 55 / कालहरणार्थादाङपूर्वाद् गमेः कतर्यात्मनेपदं भवति / आगमयते गुरुम्-कंचित् कालं प्रतीक्षते / क्षान्ताविति किम् ? विद्यामागमयति / ह्वः स्पर्धे / 3 / 3 / 56 / आङ्पूर्वाद् ह्वयतेः स्पर्धे गम्ये कर्तर्यात्मनेपदं भवति / मल्लो . मल्लमाहूयते / संनिवेः / 3 / 3 / 57 //