________________ ( 232) श्वस्तनीविषये कृपेः कर्तर्यात्मनेपदं वा भवति / कल्प्तासि, कल्पितासे। क्रमोऽनुपसर्गात् / 3 / 3 / 47 / - अविद्यमानोपसर्गात् क्रमेः कर्तर्यात्मनेपदं वा भवति / क्रमते, कामति / उपसर्गात्तु संक्रामति / .. वृत्तिसर्गतायने / 3 / 3 / 48 / वृत्तिरप्रतिबन्धः, सर्गः उत्साहः, तायनं स्फीतता / एतदर्थात् क्रमेः कर्तर्यात्मनेपदं भवति / क्रमतेऽस्य बुद्धिः शास्त्रे अप्रतिहता सती शास्त्रमवगाहत इत्यर्थः / सूत्राय क्रमते उत्सहत इत्यर्थः / क्रमन्तेऽस्मिन् योगा वर्धन्त इत्यर्थः / , परोपात् / 3 / 3 / 41 / - आभ्यामेव परात् वृत्त्याद्यर्थात् क्रमेः कर्तर्यात्मनेपदं भवति / पराक्रमते / उपक्रमते / अन्यत्र तु अनुक्रामति / वृत्त्यादावित्येव पराक्रामति / वेः स्वार्थे / 3 / 3 / 50 / स्वार्थः पादर्विक्षेपस्तदर्थात् विपूर्वात् क्रमः कर्तर्यात्मनेपदं भवति। साधु विक्रमते गजः / स्वार्थ इति किम् ? गजेन विक्रामति। प्रोपादारम्भे / 3 / 3 / 51 / . आरम्भार्थात् प्रपूर्वात् क्रमः कर्तर्यात्मनेपदं भवति / भोक्तुं प्रक्रमते / उपक्रमते / आरम्भ इत्येव प्रक्रामति गच्छतीत्यर्थः /