________________ ( 221) सत्यार्थवेदस्याः / 3 / 4 / 44 / एपां णिसंनियोगे आकारो भवति / सत्यमाचष्टे करोति वा सत्यापयति / अर्थापयति / वेदापयति / श्वेताश्वाश्वतरगालोडिताह्वरकस्याश्वतरेतकलुक्।३ / 4 / 45 / एषां णिच्संनियोगे यथासङ्ख्यमश्वादिशब्दस्य लुग् भवति / श्वेताश्वमाचष्टे करोति वा श्वेतयति / एवम् अश्वयति / गालोडयति / आहरयति / 'प्रियादिशब्दानां णौ प्रादय आदेशा वक्तव्याः / प्रियमाचष्टे प्रापयति, अपिप्रपत् / स्थिरमाचष्टे स्थापयति, अतिठपत् / स्फिरमाचष्टे . स्फापयति, अपिस्फपत् नैकस्वराणामिति निषेधाद् न समानलोपित्वम् / ॐ वरयति / गुरुं गरयति, अजगरत् / बहुलं बंहयति, अबबंहत् / तृपं त्रपयति, अतत्रपत् / दीर्घमाचष्टे द्रावयति, अदद्धत् / वृद्धं वर्षयति, अववर्षत् / वृन्दोरकं वृन्दयति, अववृन्दत् / बाढमाचष्टे साधयति, अससाधत् / अन्तिकं नेदयति, अनिनेदत् / वृद्धं ज्ययति, अजिन्यत् / प्रशस्यं श्रयति अशिश्रत्-एकस्वरत्वान्न लुगिति न समानलोपित्वम् / एवम् अल्पं कनयति, अल्पयति / युवानमाचष्टे कनयति, अचीकनत् वा यवयति, अययवत् / पृथु प्रथयति, अपप्रथत् / मृदुं म्रदयति, अमम्रदत् ।भृशं भ्रशयति, अबभ्रशत् / कृशं क्रशयति, अचक्रशत् / दृढं द्रढयति, अदद्रढत् / परिवृढं परिवढयति, अपपरिवढत् / बहुं भूययति, अवूभुयत् / स्थूलं स्थवयति, अतस्थवत् / दूरं दवयति, अददवत् /