________________ (220) एष्वर्थेषु यथासङ्ख्यमेते क्यन्नन्ता निपात्यन्ते / अशनायति। उदन्यति / धनायति / क्षुधादाविति किम् / अशनीयति, उदकीयति, धनीयति दानाय। . वृषावाद् मैथुने स्सोऽन्तः / 4 / 3 / 114 / ___ मैथुनार्थाभ्यामाभ्यां क्यनि स्सोऽन्तो भवति / वृषस्यति / अश्वस्यति / अस् च लौल्ये / 4 / 3 / 115 / लौल्ये गम्ये क्यनि परे नाम्नोऽस सश्चान्तो भवति / लवणस्यति उष्ट्रः। णिज् बहुलं नाम्नः कुगादिषु / 3 / 4 / 42 / - कृगादीनां धातूनामर्थे नाम्नो णिज् बहुलं भवति / मुण्डं करोति मुण्डयति / पटुमाचष्टे पटयति / कृतं गृह्णाति कृतयति / वस्त्रं समाच्छादयति संवस्त्रयति / लवणं करोति लवणयति व्यञ्जनम् / मिभं करोति मिश्रयति धान्यम् / व्रताद् भुजितनिवृत्त्योश्च / 3 / 4 / 43 / . शास्त्रविहितो नियमो व्रतम् / व्रतशब्दाद् मुज्यर्थे तन्निवृत्त्यर्थे च वर्तमानात् कृगादीनामर्थे णिज् बहुलं भवति / पयसा व्रतं करोति पयो व्रतयति पय एवाद्य मया भोक्तव्यं नान्यदिति व्रतं करोतीत्यर्थः / सावद्यान्नस्य व्रतं करोति सावद्यान्नं व्रतयति सावद्यानं मया न मोक्तव्यमित्यर्थः /