________________ (219) अङ्गाद् निरसने णिङ् / 3 / 4 / 38 / / अङ्गवाचिनः कर्मणो निरसनेऽर्थे णिङ् वा भवति / हस्ते निरस्यति हस्तयते / पुच्छादुत्परिव्यसने / 3 / 4 / 39 / पुच्छात् कर्मण उदसने पर्यसने व्यसने असने चार्थे णिक वा भवति / पुच्छमुदस्यति पर्यस्यति व्यस्यति उत्पुच्छ्यते / परिपुच्छ्यते / विपुच्छयते / पुच्छ्यते / . -- भाण्डात् समाचितौ / 3 / 4 / 40 / भाण्डात् कर्मणः समाचितावर्थे णिङ् वा भवति / भाण्डं समाचिनोति सम्भाण्डयते / एवं परिभाण्डयते / 'परिधानार्जने चीवरादपि वक्तव्यः '. चीवरं परिधत्ते परिचीवरयते / संचीवरयते। तपसः क्यन् / 3 / 4 / 36 / अस्मात् कर्मणः कृतावर्थे क्यन् भवति / तपः करोति तपस्यति / नमोवरिवश्चित्रकोऽर्चासेवाऽऽश्चर्ये / 3 / 4 / 37 / . एभ्यः कर्मभ्यो यथासङ्ख्यमर्चादिषु क्यन् वा भवति / नमःअर्चा करोति नमस्यति / वरिवस्यति विजयधर्मसूरि सिंहः / चित्रं करोति चित्रीयते / क्षुत्तुड्गर्धेऽशनायोदन्यधनायम् / 4 / 3 / 113 /