________________ (218) कर्तुरित्येव अपटपटा पटपटा करोतीत्यत्र न भवति / च्यर्थ इत्येव / लोहितो भवति / . . कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे / 3 / 4 / 31 / ... एभ्यः पापवृत्तिभ्यः चतुर्थ्यन्तेभ्यः क्रमणेऽर्थे क्यङ् वा भवति / कष्टाय क्रमते कष्टायते / एवं कक्षायते, कृच्छ्रायते, सत्रायते, गहनायते पापायोत्सहत इत्यर्थः / रोमन्थाद् व्याप्यादुचर्वणे / 3 / 4 / 32 / अभ्यवहृतं द्रव्यं रोमन्थः, उद्गीर्य चर्वणमुच्चर्बणम् / अस्मिन्नर्थे रोमन्थात् कर्मणः क्यङ् वा भवति। रोमन्थमुच्चयति रोमन्थायते / उच्चत्रण इति किम् , कीटो रोमन्थं वर्तयति। फेनोष्मबाष्पधूमादुद्रमने / 3 / 4 / 33 / एभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् वा भवति / फेनमुद्रुमति फेनायते / ऊष्मायते / बाष्पायते / धूमायते / ..: सुखादेर नुभवे / 3 / 4 / 34 / / सुखादिभ्यः कर्मवाचिभ्योऽनुभवेऽर्थे क्यङ् वा भवति / सुखमनुभवति सुखायते / दुःखायते / शब्दादेः कृतौ वा / 3 / 4 / 35 / . एभ्यः कर्मभ्यः कृतावर्थे क्यङ वा भवति / शब्दं करोति शब्दायते / वैरायते / पक्षे णिच शब्दयति / वैरयति / . ..