________________ (217) भकवयत् / कंवयाञ्चकार / कवीयात् / कवयिता / अकवयिष्यत् / भकवयीत् / गल्भते / क्लीबते / होडते / पय इवाचरति सो वा लुक् च / 3 / 4 / 27 / सकारान्तात् कर्तरुपमानवाचिनो नाम्न आचारार्थे क्यङ् वा भवति, तद्योगे सो वा लुक् च / पयस्यते, पयायते / यशस्यते, यशायते / चन्द्रमस्यते, चन्द्रमायते / . क्यङ्।३।४।२६ / कर्तुरुपमानवाचिन आचारार्थे क्यङ्वा भवति / हंस इवाचरति हंसायते / ओजोऽप्सरसः।३।४।२८ / आभ्यां कर्तुरुपमानाभ्यामाचारार्थे क्यङ् भवति वा, सश्च लुक च / ओजस्वीवाचरति ओजायते / अप्सरायते / व्यर्थे भृशादेः स्तोः / 3 / 4 / 29 / कर्तुरुपमानाद् भृशादेर्नाम्नः व्यर्थे क्यङ् वा भवति / यथासम्भवं स्तोः लुक् च / अभूततद्भावव्यर्थः / अभृशो भृशो भवति भृशायते / उन्मनायते / अवेहत् वेहद् भवति वेहायते / कर्तुरित्येव अभृशं भृशं करोति / च्व्यर्थ इति किम् भृशो भवति / डाच-लोहितादिभ्यः पित् / 3 / 4 / 30 / . . डानन्तेभ्यो लोहितादिभ्यश्च कर्तुः च्यर्थे षित् क्य भवति / पटपटायते, पटपटायति / लोहितायते, लोहितायति /