________________ ( 216) आधाराचोपमानादाचारे / 3 / 4 / 24 / .. मान्ताव्ययवनितादुपमानवाचिनो द्वितीयान्तादाधाराच्च नाम्न आचारार्थे क्यन् वा भवति / पुत्रमिवाचरति पुत्रीयति च्छात्रमुपाध्यायः / प्रासादे इवाचरति प्रासादीयति कुट्यां भिक्षुः / कर्तुः क्विन् गल्भक्लीबहोडात् तु डिन्त / 3 / 4 / 25 / करुपमानवाचिनो नाम्न आचारार्थे क्विन् वा भवति, स च गल्भक्लीबहोडात् डिद् भवति, तेनात्मनेपदम् / निन इवाचरति निनति / बुधति / अ इवाचरति अति अतः अन्ति / असि अथः अथ / आमि आवः आमः / एत् एताम् एयुः / एः एतम् एत / एयम् एव एम। अतु अतात् अताम् अन्तु / अ, अतात् अतम् अत / आनि आव आम / आत्. आताम् आन् / आः आतम् आत / आम् आव आम | आ आतुः ओः। इथ / आथुः आ। आ एव एम / यात् यास्ताम् यासुः 'अतः' इत्यकारलोपः / इता इतारौ इतारः / इष्यति इष्यतः इष्यन्ति / इष्यत् इष्यताम् इष्यन् / इत् इष्टाम् इषुः / 'सर्वेभ्यो लोपः' इति न्यायाद्, अन्यथा वृद्धौ ऐष्यत् ऐष्यताम् ऐष्यन् / ऐत् ऐष्टाम् ऐषुः / मालेवाचरति मालाति / मालायात् / मालातु / मालाहि / अमालात् / मालाञ्चकार / मालिता। मालिष्यति / अमालासीत् / कविरिवाचरति कवयति / कवयेत् / कवयतु /