________________ (215) - क्यनि / 4 / 3 / 112 / - क्यनि परे अवर्णस्य ईकारो भवति / पुत्रीयति / पुत्रीयेत् / पुत्रीयतु / अपुत्रीयत् / पुत्रीयाञ्चकार / पुत्रीयिता। पुत्रीयिष्यति। अपुत्रीयिष्यत् / अपुत्रीयीत् / खट्वामिच्छति खट्वीयति / मालीयति / निधीयति 'दीर्घत्रिच्च-' इति दीर्घः / पटूयति / दात्रीयति -- ऋतो रीः ' इति रीः / पित्रीयति / मात्रीयति / स्वस्त्रीयति / रायमिच्छति रैयति / गामिच्छति गव्यति, नावमिच्छति नाव्यति ‘य्यक्ये ' इत्यवावौ / गार्ग्यमिच्छति गार्गीयति -- आपत्यस्य क्यच्च्योः / इति यस्य लुक / राजीयति। अहः इच्छति अर्यति / यमिच्छति यबति / त्यति / एतद्यति / अदस्यति / सर्पिष्यति / क्षुधातः सन्नशनमिच्छति अशनायति, तृषार्तः सन्नुदकमिच्छति उदन्यति, गृद्धः सन् धनमिच्छति धनायति एते त्रयः / शुत्तड्गधेऽशनायोदन्यधनायम् ' इति निपात्यन्ते / अन्यत्र अशनीयति, उदकीयति. वनीयति / वृषमिच्छति वृषस्यति, अश्वमिच्छति अश्वस्यति 'वृपाश्चाद मैथुने स्सोऽन्तः' इति स्सोऽन्तः। वृषस्याश्वस्यशब्दो मैथुनेच्छापर्यायौ मनुष्यादावपि प्रयुज्येते / लक्ष्मणं सा वृषस्यन्ती, सा तम् अश्वस्यति / मथुनादन्यत्र वृषीयति, अश्वीयति / तृष्णायां ‘अस् च लौल्ये ' इति अस सश्चान्तो भवति / लोलुपः सन् दधि इच्छति दध्यस्यति, दधिस्यति / एवं मध्वस्यति, मधुस्यति / मान्ताव्ययनिषेधात् इदमिच्छति, किमिच्छति, स्वस्तीच्छतीत्यादौ वाक्यमेव /