________________ ( 214) अथ नामधातुप्रक्रिया। द्वितीयायाः काम्यः / 3 / 4 / 22 / द्वितीयान्ताद् नाम्न इच्छार्थे काम्यः प्रत्ययो वा भवति / इदमिच्छतीति इदंकाम्यति / इदंकाम्येत् / इदंकाम्यतु / ऐकाम्यत् / इदंकाम्याञ्चकार / इदकाम्य्यात् / इदंकाम्यिता अत्र ' योऽशिति ' इति यस्य लुग् न धातोर्व्यञ्जनात् परस्य यस्याभावात् / इदंकाम्यिष्यति / ऐटंकाम्यिष्यत् / ऐदंकाम्यीत् / पुत्रमिच्छति पुत्रकाम्यति / अपुत्रकाम्यत् / पुत्रकाम्याञ्चकार। पुत्रकाम्यिता / अपुत्रकाम्यीत् / स्वः इच्छति स्वःकाम्यति / दिवमिच्छति झुकाम्यति / अधुकाम्यीत् / मामिच्छति मत्काम्यति / युष्मानिच्छति युष्मत्काम्यति / राजकाम्यति / धूःकाम्यति / अधूःकाम्यीत् / भवत्काम्यति / एककाम्यति / धनकाम्यति / स्वस्तिकाम्यति / हविष्काम्यति / सर्पिष्काम्यति / धनुष्काम्यति 'नामिनस्तयोः षः' इति षः / तेजस्काम्यति / श्रेयस्काम्यति रोः काम्ये ' इति सः / अमाव्ययात् क्यन् च / 3 / 4 / 23 / / मकारान्तं नामाव्ययं च वर्जित्वा द्वितीयान्ताद नाम्न इच्छार्थे क्यन् काम्यश्च वा भवतः / पुत्रमिच्छति इति क्यनि