SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ( 222) ह्रस्वं इसयति, अजहूसत् / क्षिप्रं क्षेपयति, अचिक्षेपत् / क्षुद्रं सोदयति, अचुक्षोदत् / पटुं पटयति 'नामिनोऽकलिहलेः' इति कलिहलिवर्जनात् पूर्वं वृद्धौ पश्चाद् औकारलोपेनासमानलोपित्वात् अपीपटत् / ऊढिमाचष्टे ऊढयति, औनिढत् / शूनीमाचष्टे पुंवद्भावाद् / नैकस्वराणाम् ' इति अन्त्यस्वरादिलोपनिषेधाच्च श्वानयति कलिहलिवर्जनाद् नाम्नोऽपि णौ परे वृद्धिः ज्ञापितेति वृद्धिः विद्वांसं विद्वयति, अविविद्वत् / उदञ्चमाचष्टे (उदच् उदीच् ' इत्यत्र णेवर्जनात् उदयति / प्रत्यञ्चं प्रत्ययति / श्रियं श्राययति / गां गवयति / रायं राययति / नावं नावयति, अनूनवत् / स्वः स्वयति अव्ययानामन्त्यस्वरादेर्लोपः / स्रग्विणं स्रनयति, श्रीमन्तं श्राययति, धीमन्तं धाययति णौ, मत्वर्थीययोः विन्मतो क् / पयस्विनीं पययति / त्वामाचष्टे त्वदयति / युवां युष्मान् वाऽऽचष्टे युध्मयति / सध्यञ्चं सध्ययति, अससध्यत् / देवद्यञ्चं देवद्ययति, अदिदेवद्यत् / अदांचं अदययति, अद्यत् / अमुमुयश्चमाचष्टे अमुमुययति, आमुमुययत् / सध्यंचादौ निमित्तापाये नैमित्तिकस्याप्यभावः ' न चिन्त्यते, अन्यथा सहयति वा सवाययति; देवद्राययति, अमुमुआययति इत्यादयो भवेयुः / इति नामधातुप्रक्रिया समाप्ता /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy