________________ (200) न गृणाशुभरुचः / 3 / 4 / 13 / एभ्यो यङ् न भवति / निन्दितं गृणाति / भृशं शोभते / भृशं रोचते। वञ्चसंसध्वंसद्मशकसपतपदस्कन्दोऽन्तो नीः / 4 / 1 / 50 / एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तो भवति / वनीचच्यते / अवनीवचिष्ट। सनीस्रस्यते। असनीस्रसिष्ट / दनीध्वस्यते / अदनीध्वसिष्ट / बनीभ्रश्यते / अबनीभ्रशिष्ट / चनीकस्यते / अचनीकसिष्ट / पनीपत्यते / अपनीपतिष्ट / पनीपद्यते / अपनीपदिष्ट / चनीस्कद्यते / अचनीस्कदिष्ट / मुरतोऽनुनासिकस्य / 4 / 1 / 51 / आत् परो योऽनुनासिकस्तदन्तस्य यडन्तस्य धातोद्वित्वे सति पूर्वस्य मुरन्तो भवति / बम्भण्यते / चक्रम्यते / ननम्यते / यंयम्यते / रंरण्यते / चङ्कण्यते / अत इति किम् तेतिम्यते / अनुनासिकस्येति किम् / पापच्यते / ऋमतां रीः। 4 / 1 / 55 / ___ ऋमतां यङन्तां धातूनां द्वित्वे सति पूर्वस्य रीरन्तो भवति / नरीनृत्यते / चरीकृत्यते / वरीवृश्चयते / जरीगृह्यते। परीपृच्छ्यते / चलीक्लप्यते / वशेरयङि / 4 / 1 / 83 / .