________________ (199) ____ व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिले एवार्थे धातोर्यङ् भवति / कुटिलं ब्रजति वाव्रज्यते / वावजाञ्चक्रे / वात्रनिषीष्ट / अवावनिध्यत / अवाव्रजिष्ट / अन्यत्र भृशं बनतीत्येव वाक्यम् / ... गलुपसदचरजपजभदशदहो गये / 3 / 4 / 12 / / एभ्यो धातुभ्यो गर्योऽर्थे एव यङ् प्रत्ययो भवति / गर्हितं गिलति जेगिल्यते / जेगिलाञ्चके / अजेगिलिष्ट / लोलुप्यते / लोलुपिष्यते / अलोलुपिष्ट / सासद्यते / असासद्यत / सासदाञ्चक्रे / सासदिष्यते। असामदिष्यत / असासदिष्ट / चरफलाम् / 4 / 1 / 53 / एषां यडन्तानां धातूनां द्वित्वे सति पूर्वस्य मुरन्तो भवति / उकार उच्चारणार्थः / ति चोप्रान्त्यातोऽनोदुः / 4 / 1 / 54 / यङन्तानां चरफलां तादौ च प्रत्यये परे उपान्त्यस्याकारस्य उर्भवति, तस्य च ओत्त्वं न भवति / च-चूर्यते / चन्चुराञ्चक्रे / अचञ्चुरिष्ट / पम्फुल्यते / पम्फुलाञ्चक्रे / अपम्फुलिष्ट / ___ जपजभदहदशभअपशः। 4 / 1 / 52 / . एषां यङन्तानां धातूनां द्वित्वे सति पूर्वस्य मुरन्तो भवति / . जाप्यते / अजञ्जपिष्ट / दन्दह्यते / अदन्दहिष्ट / दन्दश्यते / अदन्दशिष्ट / बम्भज्यते / अबम्भजिष्ट / पम्पश्यते / अपम्पशिष्ट /