________________ ( 198 ) न कवतेर्यङः / 4 / 1 / 47 // यङन्तस्य कवतेर्द्वित्वे सति पूर्वम्य कम्य चकारो न भवति / 'दीर्वत्रिच्चयङ्' इत्यादिना दीर्घे कोकूयते / कोक्यताम्। अकोयत / कोकूयाञ्चके / कोकृयिषीष्ट / अकोकूयिष्ट / कवतेरिति वचनात् कौतिकुवत्योर्भवत्येव चोकूयते / अत्यतिमुत्रिमूत्रिसूच्यशू!ः / 3 / 4 / 10 / एभ्यो भृशाभीक्ष्ण्ये यङ् भवति / अटाट्यते / अटाट्येत / अटाट्यताम् / आटाट्यत / अटाटाञ्चक्रे / अंटाटिपीष्ट / अटाटिप्यते / आटाटिष्ट / अयि रः / 4 / 1 / 6 / स्वरादेर्धातोद्वितीयांशस्यैकस्वरस्य संयोगादी रो द्विर्न भवति, न तु रादनन्तरे यः। और्णोनूयत / अनन्तरे ये अरार्यते / अरार्येत / अरार्यताम् / आरार्यत / अराराञ्चक्रे / अरारिषीष्ट / * अरारिता / अरारिष्यते / आरारिष्यत / आरारिष्ट / सोसूत्र्यते / 'सोसूत्राञ्चके / असोसूत्रिष्ट / मोमूत्र्यते / मोमूत्राञ्चक्रे / अमोमूत्रिट / सोसूच्यते / सोसूचाञ्चके / असोसूचिष्ट / अशाश्यते / अशाशाञ्चके / आशाशिष्ट / प्रोर्णोनूयते। प्रोर्णोनूयेत / प्रो!मूयताम् / प्रौर्णोनूयत / प्रोर्णोनूयाञ्चके / प्रोर्णोनूयिषीष्ट / प्रोर्णोनूखिता / प्रोर्णोनूयिष्यते / प्रौर्णोनूयिष्यत / प्रौर्णोनूयिष्ट / गत्यर्थात् कुटिले / 3 / 4 / 11 /