________________ ( 197) अथ यङन्तप्रक्रिया। व्यअनादेरेकस्वराद् भृशाभीक्ष्ण्ये यङ् वा / 3 / 4 // 9 // गौणक्रियाणामधिश्रयणादीनां क्रियान्तरात्र्यवधानेन सम्पत्तिः फलातिरेको वा भृशत्वम्, प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनाऽऽवृत्तिराभीक्ष्ण्यम् ; तद्विशिष्टार्थे वर्तमानाद् धातोर्य प्रत्ययो भवति / भृशं पुनः पुनर्वा पचति इति पञ्+य ‘सन्यड इति द्वित्वेऽनादेर्व्यञ्जनम्य लुकि प+पच्+य इति जाते आगुणावन्यादेः / 4 / 1 / 18 / यङन्तस्य धातोत्विं सति न्याद्यागमवर्जितस्य पूर्वस्य आकारगुणौ भवतः / पापच्यधातुत्वात् त्यादौ शवि अतो लोपे पापच्यते / पापच्थेत / पापच्यताम् / अपापच्यत। योऽशिति। 4 / 3 / 80 / व्यञ्जनान्ताद् धातोः परस्य यकारस्य अशिति प्रत्यये लुग भवति / पापचाञ्चक्रे / पापचिषीष्ट / पापचिता। पापचिष्यते / अपापचिप्यत / अपापचिष्ट / पुनः पुनरतिशयेन वा भवति बोभूयते / बोभूयेत / बोभूयताम् / अवोभूयत / बोभूयाञ्चक्रे / बोभूयाम्बभूव, बोभूयामास / बोभूयिषीष्ट / बोभूयितासे C बोभूयिष्यते / अबोभूयिष्यत / अबोभूयिष्ट। :