________________ ( 196 ) कितः संशयप्रतीकारे / 3 / 4 / 6 / संशयप्रतीकारार्थात् कितः स्वार्थे सन् भवति / विचिकित्सति मे मनः / व्याधिं चिकित्सति / अन्यत्र केतयति / - अव्याप्यस्य मुचेर्मोग् वा / 4 / 1 / 19 / अकर्मकम्य मुचेः सादौ सनि मोग वा भवति, न च द्विः / मोक्षति-ते / मुमुक्षति-ते / व्याप्ये सति तु मुमुक्षति वत्सम् / मिमीमादामित् स्वरस्य / 4 / 1 / 20 / एषां दासज्ञानां च स्वरस्य सादौ सनि परे इत् भवति, न च द्विः / मित्सति / मित्सते / मित्सते / दित्सति, दित्सत। धित्सति, वित्सते / राधेर्वधे / 4 / 1 / 22 / '' हिंसार्थस्य राध्धातोः स्वरस्य इभवति सादौ सनि / प्रतिरित्सति / वध इति किम् / आरिरात्सति गुरुम् / इति सन्नन्तप्रक्रिया समाप्ता।