________________ (201) __वश्वातोः यङि परे वृद् न भवति / वावश्यते / वावश्यताम् / अवावशिष्ट / वा परोक्षायढि / 4 / 1 / 90 / .. श्विधातोः परोक्षायां यङि च वा वृद् भवति / शोशूयते / शोशूयाञ्चके / अशोशूयिष्ट / पक्षे शेश्वीयते / अशेश्वीयिष्ट / स्मृसास्मयते / असास्मरिष्ट / ऋतो रीः। 4 / 3 / 109 / ऋदन्तानां च्च्यादौ परे ऋतः स्थाने रीभवति / चेक्रीयते / हीयते / वेत्रीयते / ईय॑ञ्जनेऽयपि / 4 / 3 / 97 / गापास्थासादामाहाकां धातूनां यप्वजे व्यञ्जनादौ विडत्यशिति परे ईर्भवति / जेगीयते / पेपीयते / तेष्ठीयते। सेषीयते। देदीयते। देधीयते / मेमीयते / जेहीयते / . प्राध्मोङि / 4 / 3 / 98 / अनयोर्यङि परे ईर्भवति / जेनीयते / देध्मीयते / यङ्लुपि न ईर्भवति / हनो धनीर्वधे / 4 / 3 / 99 / हिंसार्थस्य हन्धातोर्यङि घ्नीभवति / जेघ्नीयते / जेघ्नी• याञ्चक्रे / अजेघ्नीयिष्ट / स्वप्धातोर्यङि म्वृति सोसुप्यते / असोसुपिष्ट /