________________ ( 191) अथ सन्नन्तप्रक्रिया। तुमहादिच्छायां सन्नतस्सनः / 3 / 4 / 21 / यो धातुरिषेर्धातोः कर्म तथेषिधातुना सह समानकर्तृकः स तुमाहः, तस्माद् धातोः इच्छार्थे सन् प्रत्ययो भवति / इच्छासन्नन्तात् पुनरिच्छायां सन् न भवति / भवितुमिच्छति भू+म इति स्थिते / सन्यङश्च / 4 / 1 / 3 / / सन्प्रत्ययान्तस्य यङ्प्रत्ययान्तस्य च धातोराद्य एकस्वरोंऽशो द्विर्भवति / भू+भू+स् पूर्वस्य भस्य बत्वे सः पत्वे तिवि शवि च बुभूषति / बुभूषेत् / बुभूषतु / अबुभूषत् / बुभूषाञ्चकार / बुभूपाम्बभूव / बुभूषामास / बुभूष्यात / बुभूषिता / बुभूषिष्यति / अबुभूषिष्यत् / अबुभूषीत् अबुभषिष्टाम् अबुभूषिषुः / कर्तुमिच्छति___ऋवर्णयुण्णुगः कितः / 4 / 4 / 57 / ऋवर्णान्ताद् श्रेर्णाश्च धातोरेकस्वराद् विहितस्य कित आदिरिड़ न भवति / स्वरहन्गमोः सनि धुटि / 4 / 1 / 184 / ...स्वरान्तस्य हनो गमोश्च धुडादौ सनि परे दीर्घा भवति / पूर्वेण इनिषेधे ऋतां विडतीर् ' इतीरादेशे द्वित्वे चत्वे षत्वे