________________ (190) रब्धातोरुपान्त्यस्य नो णौ परे लुग भवति, मृगाणां क्रीडायाम् / रजयति मृगं व्याधः / अरीरजत् / ..वा वेष्टचेष्टः / 4 / 1 / 66 / .. अनयोर्धात्वोरसमानलोपे उपर णौ द्वित्वे सति पूर्वस्याद् वा भवति / अववेष्टत् , 'अविवेष्टत् / अचचेष्टत् , अचिचेष्टत् / स्वपधातोः स्वापयति / अद्यतत्याम् स्वपेर्यड़े च / 4 / 1 / 80 / स्वप्धातोर्यङि डे किति च सस्वरान्तस्था य्वृद् भवति / अमूघुपत् / सोषुप्यते / सुप्यते / श्वि-श्वाययति / ___श्वेर्वा / 4 / 1 / 89 / / श्विधातोः सस्वरान्तस्था ङपरे सन्परे च णौ विषये य्वृद् वा भवति / अशूशवत् , अशिश्वयत् / इंक् स्मरणे / इणक् गतौ णावज्ञाने गमुः। 4 / 4 / 24 / - अज्ञानार्थे वर्तमानयोः इणिकोः णौ गम्वादेशो भवति / अधिगमयति प्रियम् / अध्यजीगमत् / गमयति / अजीगमत् / ज्ञाने तु प्रत्याययति शब्दोऽर्थम् / इति णिगन्तप्रक्रिया।