________________ (183) हिंसायाम् / वदिण भाषणे / वादयति / वदते / अवीवदत् / छदण् अपवारणे / आङः सदण गतौ / आसादयति / पक्षे आसीदति / सदिता / असदीत् / मानण पूजायाम् / मानयति / मानति / अमीमनत् / तपिण् दाहे / तापयति, तपते / अतीतपत् / आप्लम् लम्भने / आपयति / प्रापयति / आपिपत् / पक्षे आपति / आपिता / आपत् / ईरण क्षेपे / ईरयति / ऐरिरत् / ईरति / ईराञ्चकार / ऐरीत् / मृषिण तितिक्षायाम् / मर्षयति / अमीमृषत् , अममर्पत् / पक्षे इदित्त्वादात्मनेपदे मर्षत / अमर्षिष्ट / शिषण असर्वोपयोगे। असर्वोपयोगोऽनुपयुक्तत्वम्। शेषयति। अशीशिषत् / विपूर्वस्तूत्कर्षे / विशेषयति / पक्षे शेषति / शेषिता / अशेषीत् / धषण प्रसहने / प्रसहनमभिभवः / धर्षयति / अदीधृषत् , अदधर्षत् / पक्षे धर्षति / अधर्षीत् / हिसुण हिंसायाम् / हिंसयति, हिंसति / अनिहिंमत् / गर्हण विनिन्दने / गर्हयति, गर्हति / अजगर्हत् / षहण मर्षणे / साहयति / असीषहत् / सहति / सहिता। असाहीत , असहीत् / एतन्निदर्शनं बहुलं द्रष्टव्यं तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः, स्तम्भ्वादयश्च सौत्राः, चुलुम्पादयश्च वाक्यकरणीया घातव उदाहरणीयाः-दिवि ग्रहा विक्लवन्ते विच्छायीभवन्तीत्यर्थः / उपक्षपयति प्रावृड् आसन्नीभवतीत्यर्थः, उत्तम्नातीत्यादयः / इति युनादिगणः समाप्तः, तत्समाप्तौ समाप्तथुरादिगणोऽपि।