________________ ( 184) अथ णिगन्तप्रक्रिया। meeste प्रयोक्तृव्यापारे णिम् / 3 / 4 / 20 / कुर्वन्तं यः प्रयुक्ते तस्य व्यापारे वाच्ये धातोः णिग वा भवति / चैत्रो भवति, भवन्तं चैत्रं मैत्रः प्रेरयतीति भावयांत चैत्र मैत्रः / गित्त्वादात्मनेपदमपि भावयते / भावयेत् / भावयेत / भावयतु / भावयताम् / अभावयत् / अभावयत / भावयाञ्चकार / भावयाञ्चके / भावयाम्बभूव / भावयामाल / भाव्यात् / भावयिषीष्ट / भावयिष्यति / भावयिष्यते / अद्यतन्यां तु गौ कृतस्य कार्यस्य स्थानिवद्भावाद् अबुभव--इ+अ+त् इति स्थिते ' असमानलोपे ' इत्यादिना सन्वत्कार्ये सनि च ‘ओन्तिस्थापवर्गेऽवणे' इतीकारे तस्य च ' लबोर्दीघ-' इत्यादिना दीर्वे अबीभन्+इ+अत् णेलुंकि अबीभवत् अबीभवताम् अवीभवन् / अबीभवत अबीभवेताम् अबीभवन्त / जु गतौ / जवन्तं प्रेरयति जावयति / जावयते / अजावयत् / अजावयत / जाव्यात् / जावयिषीष्ट / अजीजवत् अजीजवताम् अजीजवन् / अजीजवत अजीजवेताम् ।युंक् मिश्रणे ।यावयति / यावयेत् / यावयाश्चकार / याव्यात् / यावयिषीष्ट / अयीयवत् / अयीयवत / रि गतौ / राययति / अरीरयत् / अरीरयत। श्रृंट श्रवणे। श्रावयति / श्रावयेत्। श्रुरुद्रगुप्लुच्योर्वा / 4 / 1 / 61 / . C .'