________________ (179) गूरिण उद्यमं / गूरयते / अजगुरेत / ललिण ईप्सायाम् / लालयते / अलीललत / दंशिण दशने / यक्षिण पूजायाम् / यक्षयते / अययक्षत। इत्यात्मनेपदं समाप्तम् // अथ अदन्ता धातवःअङ्कण लक्षणे / अङ्कयति। आञ्चिकत् / सुख दुःखण तत्कियायाम् / अतः / 4 / 3 / 82 / / अदन्ताद् धाताविहितेऽशिति प्रत्यये परे धातारकारस्य लुग भवति / मुग्वयति / नन्वत्र अकारलुकि गुणः कथं न भवतीति चेत्, स्थानिवद्भावात् / सुग्वयेत् / असुखयत् / सुखयाञ्चकार / असुसुखत् समानलोपित्वात् सन्वद्भावदीर्घत्वयोरभावः / अङ्कादीनामदन्तषु पाठः पूर्वाचार्यानुरोधादेव, णिजभावेऽनेकावरत्वेन यङ्प्रत्ययाभावार्थ इत्यन्ये / केचित्तु एवंविधानामदन्तत्वविधानसाम * देवाल्लोपाभावं मन्वानाः णिति परे वृद्धौ प्वागमे च अङ्कापयति इत्यादीन्युदाहरन्ति / एवं सुखापयति, दुःखापयति, वण्टापयति, कथापयति, अर्थापयते, सूत्रापयते, गर्वापयते इत्यादीन्यपीच्छन्ति। रचण् प्रतियत्ने / रचयति / रचयाञ्चकार / अरचयत् / अररचत् / सूचण पैशून्ये / भाजण् पृथक्कर्मणि / सभाजण प्रीतिसेवनयोः / कूटणू दाहे / पट वटणू ग्रन्थे / खेटण् भक्षणे / खोटण क्षेपे /