________________ पूर्वयोकारस्येत्वमिति अयियवत् / गृणि विज्ञाने / गारयते ।वञ्चिण प्रलम्भने / प्रलम्भनं मिथ्याफलाख्यानम् / वश्चयते / अवञ्चयत / वश्चयाञ्चक्रे / वञ्चयाम्बभूव / वश्चयामास / वञ्चयिषीष्ट / वञ्चयितासे / वञ्चयिष्यते / अवञ्चयिष्यत / अववञ्चत अववञ्चेताम् अववञ्चन्त / इदित्वादेव णिगन्तादप्यात्मनेपदे मिद्धे प्रलम्भे गृधिवश्वेः' इत्यनेनात्मनेपदविधानं णिगन्तादफलवति कर्तर्यपि आत्मनेपदविधानाथम् / मदिण तृप्तियोगे / मादयते / मादयताम् / मादयाञ्चक्रे / मादयिष्यते / अमीमदत अमीमदेताम् / विदिण चेतनाग्व्याननिवासेषु / वेदयते / वेदयेत / वेदयाञ्चक्रे / वेदयिष्यते / अवीविदत अवीविदेताम् अवीविदन्त / मनिण स्तम्भे / स्तम्भो गर्वः / मानयते गर्व करोतीत्यर्थः / मानयाञ्चक्रे / मानयाम्बभूव / मानयामास / अमीमनत / बलि भलिण आभण्डने / आभण्डनं निरूपणम् / बालयते भालयते रूपं निरूपयतीत्यर्थः / भालयाञ्चक्रे / भालयामास / अबीभलत / दिविण परिकूजने / देवयते / देवयताम् / अदेवयत / देवयाञ्चक्रे / अदीदिवत / लक्षिण आलोचने / लक्षयते / अलक्षयत / लक्षयाञ्चके / अललक्षत / कूटिण अप्रमादे। शठिण श्लाघायाम् / कूणिण संकोचने / तूणिण पूरणे / भ्रणिण आशायाम् / चितिण संवेदने / वस्ति गन्धिण् अर्दने / शमिण आलोचने / 'अमोऽकम्यमिचमः ' इत्यनेन ह्रस्वं प्राप्ते. 'शमोऽदर्शने ' इत्यनेनादर्शने एव णौ परे शमो इस्वत्वकरणात शामयते / निशामयते / अशामयत / शामयाञ्चक्रे / अशीशमत /