________________ ( 180) दण्डण् दण्डनिपातने / गणण् मळ्याने / गणयति / गणयेत् / गणयतु / अगणयत् / गणयाञ्चकार / गणयिता / गणयिष्यति / अद्यतन्यां डे कृते ई च गणः / 4 / 1 / 67 / गणेः ङपरे णौ द्वित्वे पूर्वस्य इरश्च भवतः / अनीगणत् अनीगणताम् अजीगणन् / अंजगणत् अनगणताम् अजगणन् / अदन्तत्वं सुखादीनां णिज्योगे एवातोऽनित्यत्वेन णिनोऽभावे जगाण जगणतुः जगणुः / आनङ्क आनङ्कतुः आनङ्कुः इत्यादीन्येव, नात्राम् / पतण गतौ वा। वाशब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः / वातण गतिसुखसेवनयोः / कथण वाक्यप्रबन्धे / कथयति / अचकयत् / छेदण द्वैधीकरणे / गदण गर्ने / अन्धण दृष्ट्युपपाते / स्तनण गर्ने / ध्वनण् शब्दे / स्तेनण् चौर्ये / उनण् परिहाणे / उनयति / औनिनत् औनिनताम् औनिनन् / मा भवान् उनिनत्। रूपण रूपक्रियायाम् / भामण कोधे / गोमण उपलेपने / सामण सान्त्वने / स्तोमण श्लाघायाम् / व्ययण वित्तसमुत्सर्गे / सूत्रण विमोचने / सूत्रयति / असुसूत्रत् / मूत्रण प्रस्त्रवणे / मूत्रयति / अमुमत्रत् / पार तीरण कर्मसमाप्तौ / पारयति / पारयाञ्चकार / अपपारत् / तीरयति / तीरयाञ्चकार / अतितीरत् / चित्रण चित्रक्रियाकदाचिदृष्टयोः / वरण ईसायाम् / शारण दौर्बल्ये / कुमारण क्रीडायाम् / कलण सख्यानगत्योः। शीलण उपधारणे। वेल कालण उपदेशे / पल्यला लवनपवनयोः / गवेषण मार्गणे / ..