________________ ( 176) श्कार। णिचोऽनित्यत्वात् चटति, स्फोटति / घटण संघाते / अर्थान्तरे घटिए चेष्टायाम् , अयमेवार्थान्तरे बटादौ बोध्य इत्यर्थः / घटादेईस्वो दीर्घस्तु वा त्रिणम्परे / 4 / 2 / 24 / ___घटादीनां धातूनां णौ परे हस्वो भवति / जिणम्परे तु णौ वा दीर्घः / घटयति / घटयेत् / घटयतु / अवटयत् / घटयाञ्चकार / घटयाम्बभूव / घटयामास / अजीवटत् अनी घटताम् अनीघटन् / हन्त्यर्थाश्च ये धातवोऽन्यत्र पठिता हिंमार्थास्तेषामपि चुरादौ पाठो बोध्यः / यतण निकारोपणकारयोः / यातयति शत्रुन क्षेत्रः / उपस्कारे यातयति दरिद्रः परम्य धनम् / अयीयतत् / निरश्च प्रतिदाने निःपूर्वो यत्धातुश्चुरादौ ज्ञातव्यः, स च प्रतिदानेऽर्थे / निर्यातयति ऋणम् / शब्दण् उपसर्गाद् भाषाविष्कारयोः / शब्दयति / अशशब्दत् / ष्वदण् आस्वादने / स्वादयति / असिष्वदत्। मुदण् संसर्गे / मोदयति सक्तून् सर्पिषा संयोजयतीत्यर्थः / नभुण् नाशने / अमण रोगे / चरण असंशये / पूरण आप्यायने / दलण् विदारणे। पश पषण बन्धने / पुषण धारणे / वृष्ण विशब्दने। विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा / घोषयति / अयुषत्। ऋदित्करणात् अनित्यो णिच् चुरादीनामिति ज्ञापितं तेनाङि अधुषत् अघुषताम् अधुषन् / अर्थान्तरे तु घुष शब्दे घोषति चैत्रः शब्दं करोतीत्यर्थः / आङः परस्तु वृषण क्रन्दार्थे ज्ञेयः, आघोषयति क्रन्दते इत्यर्थः / भूष तसुण अलङ्कारे / भूषयति /