________________ ( 175 ) श्वकार / अपपक्षत् / लक्षीण दर्शनाङ्कनयोः / लक्षयति / लक्षयाञ्चकार / अललक्षत् / ज्ञाण मारणादिनियोजनेषु / अतिरीब्लीहीक्नूयिक्ष्माय्यातां पुः / 4 / 2 / 21 / एषामादन्तानां च णौ पुरन्तो भवति / मारणतोषणनिशाने ज्ञश्च / 4 / 2 / 30 / मारणादिष्वर्थेषु वर्त्तमानस्य जानातेर्धातोणिचि अणिचि च णौ परे हस्वो भवति, भिणम्परे तु वा / मारणे सञ्ज्ञपयति पशून् हिनस्तीत्यर्थः / तोषणे विज्ञपयति गुरून् तोषयतीत्यर्थः / निशाने प्रज्ञपयति शस्त्रम् तीक्ष्णयतीत्यर्थः / अन्यत्र तु आज्ञापयति भृत्यान् आज्ञां करोतीत्यर्थः / ज्ञपयति / अजिज्ञपत् अनिज्ञपताम् अजिज्ञपन् / भूण अवकल्कने / अवकल्कन मिश्रीकरणम् / दध्ना ओदनं भावयति। अन्ये त्ववकल्कने नेच्छन्ति तन्मते साधुः समयं भावयति विचारंयतीत्यर्थः / भावयेत् / भावयतु / अभावयत् / भावयाञ्चकार / भावयाम्बभूव / भावयामास / भाव्यात् / भावयिता। भावयिष्यति / अभावयिष्यत् अबीभवत् / लिगुण चित्रीकरणे / लिङ्गयति / चर्चण अध्ययने / चर्चयति / अचचर्चत् / अञ्चण् विशेषणे / विशेषणमतिशयः अञ्चयति मुचण् प्रमोचने / अर्जण प्रतियत्ने / भनण् विश्राणने / चट स्फुटण भेदे / चाट्यति / उच्चाटयति / स्फोटयति / आस्फोटया