________________ (173) वटुण् विभाजने / शुठण आलस्ये / शोठयति / अशूशुठत् / गुठण वेष्टने / लडण उपसेवायाम् / लाडयति / लाड्यात् / अलीलडत् / डम्य लत्वे लालयति / स्फुडुण परिहासे / ओलडुण् उत्क्षेपे। ओलण्डयति ओदिदयमित्यन्ये तन्मते लण्डयति / पीडण गहने / गहनं बाधा / पीडयति / भ्रानभासभाषदीपपीडजीवमीलकणरणवणभणश्रणलॅहेठ लुटलुपलपां नवा / 4 / 2 / 36 / एषां ङपरे णावुपान्त्यस्य ह्रस्वो वा भवति / अपीपिडत्, अपिपीडत् / तडण् आघाते / कडुण् खण्डने च / चुडुण् छेदने / मडुण भूषायाम् / मण्डयति / मण्डयाञ्चकार / अममण्डत् / भडुण् कल्याणे / भण्डयति / अबभण्डत् / ईडण् स्तुतौ / ईडयति / ऐडिडत् / चडुण कोपे / चण्डयति अचचण्डत् / चूण तूणण संकोचने / चूणयति / अचूचुणत् / तूणयति / तूण्यात् / अतृतुणत् / अणण् दाने / श्राणयति / अशिश्रणत्, अशश्राणत् / चितुण् स्मृत्याम् / चिन्तयति / अचिचिन्तत् / पुस्त बुस्तण आदरानादरयोः / पुस्तयति। पुस्ताञ्चकार / पुस्त्यात् , अपुपुस्तत् / बुस्तयति / अबुबुस्तत् / मुस्तण संघाते / कृतणू संशब्दने / कृतः कीर्तिः / 4 / 4 / 122 / कृतणः कीर्तिर्भवति। कीर्तयति / अकीर्तयत्। कीर्तयाञ्चकार। ऋद् ऋवर्णस्य / 4 / 2 / 37 /