________________ ( 172) द्वयुक्तिभाजः स्वरादेर्धातोर्द्वितीयोऽश एकम्बगे द्विर्भवति / इति / किं ' इत्यस्य द्वित्वे प्राप्ते / ___अयि रः / 4 / 1 / 6 / स्वरादेर्धातोद्वितीयम्यांशस्यैकस्वरस्य मंयोगाढ़ी रो दिन भवति, न तु रादनन्तरे यि / आर्किक आर्किकताम् आर्किकन् / ङपरे / णौ लघ्वक्षराभावात् न मन्वत्कार्य दीर्घश्च / पचुण विस्तार पञ्चयति। अपञ्चयत् / पञ्च्यात् / पञ्चयिता / पञ्चयिष्यति / अपञ्चयिष्यत् / अपपञ्चत् अपपञ्चताम् अपपश्चन् / म्लेच्छण् म्लेच्छने / म्लेच्छयति / म्ले छ्यात् / अमिम्लेच्छन् अमिम्लच्छताम् अमिम्लेच्छन् / ऊर्जण बलप्राणनयोः / प्राणनं जीवनम् / उर्जयति / और्जयत् / उात् / उर्जयिता / उर्जयिष्यति / औजयिष्यत् / और्जिनत् और्निजताम् और्जिजन् / तुजु पिजण हिंमाबलदाननिकेतनेषु / तुञ्जयति / पिञ्जयति / अपिपिञ्जत् अपिपिञ्जताम् अपिपिञ्जन् / पूजण पूजायाम् / पूजयति / पूजयाञ्चकार / पूज्यात्। पूजयिता / अपूपुजत् अपूपुजताम् अपूपुजन् / तिजण निशाने / तेजयति / तेजयतु / तेजयामास / तेज्यात् / अतीतिजत् अतीतिजताम् अतीतिजन् / वज व्रजण मार्गणसंस्कारगत्योः / मार्गणो बाणस्तस्य संस्कारे गतौ च / अवीवजत् / अविव्रजत् / रुजण हिंसायाम् / नटण अवस्यन्दने / अवस्यन्दनं भ्रंशः / तुट चुट चुटु छुटुण् छेदने / कुट्टण् कुत्सने च / पुट मुटण् संचूर्णने / लुण्टण स्तेये / लुण्टयति / अटुलुण्टत् / स्फुटण परिहासे /