________________ (171) इति स्थिते द्वित्वे तस्य च हस्वत्वे पपार+इ+अ+त् इति स्थिते : उपान्त्यस्य हस्ते कृते पपर+इ+अ+त् इति जाते असमानलोपे सन्वल्लघुनि / 4 / 1 / 63 / न विद्यते समानस्य लोपो यस्मिन् तस्मिन् ङपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य भवति / सनि परे द्वित्वे पूर्वस्याकारस्य यथा इत्वं भवति तथाऽत्रापीत्यर्थः / अडागमे अपिपर+इ+अ+त् इति जाते 'लघोर्दीघ' इत्यादिना दीर्धे ‘णेरनिटि' इति णेर्लोपे अपीपरत् अपीपरताम् अपीपरन् / घृण स्रवणे / घारयति / घारयेत् / घारयतु / अघारयत् / घारयाञ्चकार / घारयाम्बभूव / घारयामास / घार्यात् / घारयिष्यति / अजीघरत् अजीघरताम् अनीघरन् / श्वल्क वल्कण भाषणे / श्वल्कयति / अश्वल्कयत्। श्वल्कयाञ्चकार / श्वल्कयाम्बभूव / श्वल्कयामास / श्वल्क्यात् / अश्वल्कयिष्यत् / परस्मिन् लघुधात्वक्षराभावात् न दीर्घः अशश्वल्कत् / नक्क धक्कण नाशने / नक्कयति / अननवत् / धक्कयति / अदधकत् / चक्क चुक्कण व्यथने / चक्कयति / अचचकत्।चुक्कयति। अचुचुक्कत् / टकुण् बन्धने / टङ्कयति / टङ्कयाञ्चकार / अटटङ्कत् / अर्कण् स्तवने / अर्कयति / आर्कयत् / अर्कयाञ्चकार / अात् / अर्कयिता / अर्कयिष्यति / स्वरादेद्वितीयः / 4 / 1 / 4 /