________________ (170) णेरनिटि / 4 / 3 / 83 / .. - अनिटि अशिति प्रत्यये गेलुंग भवति / चोर्यात् / चोरयिता / चोरयिष्यति / अचोरयिष्यत् / अद्यतन्यां -- णिश्रिद्रुनुकमः कर्तरि ङः' इति डे कृते 'आद्योऽश एकस्वरः' इत्यनेन आद्यस्य एकस्वरवतोऽवयवस्य द्वित्वे चो+चोर+इ+अ+त् इति स्थिते द्वित्वे पूर्वस्य हूस्वे- . उपान्त्यस्यासमानलोपिशास्वृदितोडे / 4 / 2 / 36 / समानलोपिशास्वृदिद्वर्नस्य धातोरुपान्त्यस्य ङपरे णौ हस्वो भवति / इति ह्रस्वे कृते लघोदीर्घोऽस्वरादेः / 4 / 1 / 64 / अस्वरादेरसमानलोपे ङपरे णौ द्वित्वे पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घो भवति / अडागमे च णेर्लोपे च अचूचुरत् अचूचुरताम् अचूचुरन् / अचूचुरः अचूचुरतम् अचूचुरत / अचूचुरम् अचूचुराव अचूचुराम / पृण पूरणे / णौ 'नामिनोऽ कलिहलेः ' इति वृद्धौ आरादेशे शवि गुणे च पारयति पारयतः पारयन्ति / पारयेत् / पारयतु / अपारयत् / पारयाञ्चकार / पारयाम्बभूव / पारयामास / पार्यात् / पारयिता / पारयिष्यति / अपारयिष्यत् / अद्यतन्यां दिप्रत्यये हे च कृते पार+३+अ+त्