________________ ( 169) अवृष्ठाः, अवृषायाम् अवृढ्वम् , अवृड्ढ्वम् / अवृषि अवृष्वहि अवृष्महि / इति समाप्तः क्रयादिगणः। अथ चुरादिगणः। णानुबन्धाश्चुरादयः / चुरण स्तेये / चुरादिभ्यो णिच् / 3 / 4 / 17 / चुरादिधातुभ्यः स्वार्थे णिच् प्रत्ययो भवति / ' शेषात् ' - इति परस्मैपदे चुर+इ+ति इति स्थिते गुणे कृते चोरि+ति इति स्थिते शवि कृते गुणे च अयादेशे च चोरयति चोरयतः चोरयन्ति। चोरयसि चोरयथः चोरयथ / चोरयामि चोरयावः चोरयामः। चोरयेत् चोरयेताम् चोरयेयुः। चोरयेः चोरयेतम् चोरयेत / चोरयेयम् चोरयेव चोरयेम / चोरयतु, चोरयतात् चोरयताम् चोरयन्तु चोरय, चोरयतात् चोरयतम् चोरयत / चोरयाणि चोरयाव चोरयाम / अचोरयत् अचोरयताम् अचोरयन् / अचोरयः अचोरयतम् अचोरयत / अचोरयम् अचोरयाव अचोरयाम / चोरयाञ्चकार चोरयाम्बभूव / चोरयामास /