________________ ( 106) स्वरेऽतः / 4 / 3 / 75 / सकोऽस्य स्वरादौ प्रत्यये परे लुग् भवति / अद्विक्षाताम् अद्विक्षत / दुहीक क्षरणे ' भ्वादेर्दा देर्घः ' 'अधश्चतुर्थात् तथोधः' दोग्धि दुग्धः दुहन्ति / धोति / दुग्धे दुहाते दुहते / दुह्यात् , दुहीत / दोग्धु, दुग्धात् दुग्धाम् दुहन्तु / दुग्धि / दुग्धाम् दुहा- . ताम् दुहताम् / धुक्ष्वदुहाथाम् धुग्ध्वम् / दोहै दोहावहै दोहामहै। अधोक् अदुग्धाम् अदुहन् / अदुग्ध अदुहाताम् अदुहत / अदुग्धाः / दुदोह / दुदुहे / दुह्यात् , धुक्षीष्ट / दोग्धा / धोक्ष्यति, धोक्ष्यते / अवोक्ष्यत् , अधोक्ष्यत / अधुक्षत् अधुक्षताम् अधुक्षन् / आत्मनेपदे ‘दुहदिह-' इत्यादिना दन्त्यादौ सको वा लुक् अदुग्ध, अधुक्षत अधुक्षाताम् अधुक्षन्त / अदुग्धाः, अधुक्षथाः अधुक्षाथाम् अंधुग्ध्वम् , अधुक्षध्वम् / अधुक्षि अधुक्षावहि, अधुग्वहि अधुक्षामहि, अधुग्महि / विहींक उपलेपे / देग्धि, दिग्धे / दिह्यात् , दिहीत / देग्धु, दिग्धाम् / अधेक्, अदिग्ध / दिदेह, दिदिहे / दिह्यात् , धिक्षीष्ट / देग्धा / धेक्ष्यति, धेश्यते / अधेक्ष्यत्, अधेक्ष्यत / अधिक्षत् अधिक्षताम् अधिक्षन् / अदिग्ध, अधिक्षत अधिक्षाताम् अधिक्षन्त / लिहींक आस्वादने / लेढि लीढः लिहन्ति / लेक्षि / ' हो धुट्पदान्ते' ढत्वम् , ' अधश्चतुर्थात् ' इति थस्य धत्वम्, ‘तवर्गस्य' इति धो ढत्वम् / ढस्तड्ढे ' इति ढो लुक् दीर्घत्वं च लीढः लीढ / लेहिम लिङ्गः लिहमः / लीढे लिहाते लिहते / लिह्यात् / लिहीत।