________________ बूंतः परादिः।४।३।६३ / ब्रुव ऊतः व्यञ्जनादौ विति परादिरीद् भवति / ब्रवीति ब्रूतः ब्रुवन्ति / ब्रवीषि ब्रूथः ब्रूथ / ब्रवीमि ब्रूवः ब्रूमः / गः पञ्चानां पञ्चाहश्च / 4 / 2 / 118 // - ब्रूगः परेषां तिवादीनां पञ्चानां यथासङख्य पञ्च णवादयो भवन्ति, तद्योगे ब्रूग आहश्च / आह आहतुः आहुः / ' नहाहो तौ ' आत्थ आहथुः / ब्रूते ब्रुवाते / ब्रूयात् / ब्रवीत / ब्रूताम् ब्रुवाताम् ब्रुवताम् / ब्रवीतु, ब्रूतात् ब्रूताम् ब्रुवन्तु / ब्रूहि / ब्रवाणि बवाव वाम / अब्रवीत् अब्रूताम् अब्रूवन् / अब्रवीः / अब्रूत अब्रुवाताम् अब्रुवत / परोक्षायां वचादेशे उवाच ऊचतुः ऊचुः / ऊचे ऊचाते उचिरे / उच्यात्, वक्षीष्ट'। वक्तासि, वक्तासे / वक्ष्यति, वक्ष्यते / अवक्ष्यत् , अवक्ष्यत / अवोचत् अवोचताम् अवोचन् / अवोचत अवोचेताम् अवोचत / द्विषींक अप्रीतौ / द्वेष्टि द्विष्टः द्विषन्ति / द्वेक्षि द्विष्ठः द्विष्ठ / द्वेष्मि विष्वः द्विष्मः / द्विष्टे / द्विष्यात् / द्विषीत / द्वेष्टु द्विष्टाम् द्विषन्तु / टेड्ढि द्विष्टम् द्विष्ट / द्वेषाणि द्वेषाव द्वेषाम / द्विष्टाम् द्विषाताम् द्विषताम् / अद्वेट् अद्विष्टाम् ' वा द्विषातोऽनः पुस्' अद्विषुः, अद्विषन् / अद्विष्ट अद्विषाताम् अद्विषत / दिद्वेष दिद्विषतुः / दिद्विषे दिद्विषाते दिद्विषिरे / द्विष्यात् , द्विक्षीष्ट / द्वेष्टासि, द्वेष्टासे / द्वेक्ष्यति, द्वेक्ष्यते / अद्वे क्ष्यत् , अद्वेक्ष्यतः। अद्यतन्यां सकि अद्विक्षत् अद्विक्षताम् अद्विक्षन् / अद्विक्षत /