________________ (92) ताम् अदरिद्रुः / अदरिद्राः अदरिद्रितम् अदरिद्रित / अदरिद्राम् अदरिद्रिव अदरिद्रिम / परोक्षायाम्धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम् / 3 / 4 / 46 / / अनेकस्वराद् धातोः परस्याः परोक्षायाः स्थाने आम् भवति / आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनु प्रयुज्यन्ते / दरिद्राश्वकार / दरिद्राम्बभूव / दरिद्रामास / ' आतो णव औः' इत्यत्र ओकारेणैव सिद्धे औकारविधानात् दरिद्रातेरामादेशस्यानित्यत्वाद् ददरिद्रौ ददरिद्रतुः ददरिद्रुः / ददरिद्रिथ ददरिद्रथुः ददरिद्र / ददरिद्रौ ददरिद्रिव ददरिद्रिम इत्यपि सिद्धम् / अशित्यस्सन्णकचणकानटि / 4 / 3 / 77 / सादिसन्नादिवर्जितेऽशिति प्रत्यये विषये दरिद्रातेरन्तस्य लुग भवति / दरिद्यात् / दरिद्रिता / दरिद्रिष्यति / अदरिद्रिष्यत् / दरिद्रोऽद्यतन्यां वा / 4 / 3 / 76 / / दरिद्रातेरद्यतन्यां विषये लुग् वा भवति / अदरिद्रीत्, पक्षे 'यमिरमिनम्यातः ' इति सोऽन्तः अदरिद्रासीत् / जागृक् निद्राक्षये / जागति जागृतः जाग्रति / जागर्षि जागृथः जागृथ / जागर्मि जागृवः जागृमः / जागृयात् / जागतु / जागृहि / नागराणि जागराव जागराम / ह्यस्तन्यां गुणे सति व्यअनाद् देः सश्च दः / 4 / 3 / 78 //