________________ (93) . व्यञ्जनान्ताद् धातोः परस्य दे ग भवति, यथासम्भवं धातोः सो दश्च भवति / अजागः अजागृताम् अजागरुः अत्र पुसि -- पुस्पौ' इति गुणः। जाग्रुपसमिन्धेर्नवा / 3 / 4 / 49 / ___ एभ्यः परस्याः परोक्षाया आम् वा भवति / आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / जागराञ्चकार जागराम्बभूव जागरामास / पक्षे जनागार / जागुः किति / 4 / 3 / 6 / जागृधातोः किति प्रत्यये परे गुणो' भवति / जजागरतुः जनागरुः / जनागरिथ जजागरथुः जजागर / जनागार, जनागर जजागरिव जजागरिम / जागर्यात् / जागरिता / जागरिष्यति / अजागरिष्यत् / अजांगरीत् / चकासृक् दीप्तौ / चकास्ति चकास्तः चकासति / चकास्सि चकास्थः चकास्य / चकास्मि चकास्वः चकास्मः / चकास्यात् / चकास्तु चकास्ताम् चकासतु / हेर्धित्वे चकाद्धि पक्षे ___ सो धि वा / 4 / 3 / 72 / धातोर्धादौ प्रत्यये सो लुग् वा भवति / चकाधि / चकास्तम् चकास्त / चकासानि चकासाव चकासाम / अचकात् अचकास्ताम् अचकासुः। सेः मद्धा च रुर्वा / 4 / 3 / 79 /