________________ (91) ‘सन् / श्वस्यात् / श्वसिता / श्वसिष्यति / अश्वसिष्यत् / अश्वसीत्। जक्षक भक्षहसनयोः / जक्षिति जक्षितः जक्षति / जक्षिषि जक्षियः जक्षिथ / जक्षिमि जक्षिवः नक्षिमः / जक्ष्यात् / जक्षितु / अनक्षत् , अनक्षीत् अजक्षिताम् / द्वयुक्तजक्षपञ्चतः / 4 / 2 / 93 / द्वयुक्तात् नक्षादिपञ्चकाच्च धातोः परस्य शितोऽवितोऽनः पस भवति / अजक्षुः / अनक्षः, अनक्षीः . अनक्षितम् अनक्षित / अनक्षम् अजक्षिव अजक्षिम / जनक्ष / जक्ष्यात् / जक्षिता / जक्षिष्यति / अजक्षिष्यत् / अजक्षीत् / दरिद्राक् दुर्गतौ / / दरिद्राति / इर्दरिद्रः / 4 / 2 / 98 / दरिद्रो व्यञ्जनादौ शित्यवित्यात इभवति / दरिद्रितः / नश्चातः / 4 / 2 / 96 / द्वयुक्तनक्षपञ्चतः भाप्रत्ययस्य चातः शित्यविति परे लुग् भवति / अन्तो नो लुक् / 4 / 2 / 94 / / द्वयुक्तजक्षपञ्चकात् परस्य शितोऽवितोऽन्तो नो लुग भवति / दरिद्रति / दरिद्रासि दरिद्रिथः दरिद्रिथ / दरिद्रामि दरिद्रिवः दरिद्रिमः / दरिद्रियात् / दरिद्रातु / अदरिद्रात् अदरिद्रि