________________ (87) अध्यायम् अध्यैव अध्यैम / अधीयाय अधीयतुः इयतुः 'योऽनेकस्वरस्य' इति यत्वम् अधीयुः / अधीयात् / अध्येता / अध्येष्यति / अध्यैष्यत् / इणिकोई / 4 / 4 / 23 / इणिकोरद्यतन्यां गा भवति / अध्यगात् अध्यगाताम् अध्यगुः। इंण्क् गतौ / एति इतः / हिणोरप्विति व्यौ / 4 / 3 / 15 / होरिणश्च नामिनः स्वरादावपित्यविति शिति यथासङ्ख्यं व्यौ भवतः / यन्ति / एषि इथः इथ / एमि इवः इमः / इयात् / एतु, इतात् इताम् यन्तु / इहि, इतात् इतम् इत। अयानि अयाव अयाम / ऐत् ऐताम् आयन् / ऐः ऐतम् ऐत / आयम् ऐव ऐम / इयाय / इणः।२।१।५१। - इणधातोः स्वरादौ प्रत्यये परे इयादेशो भवति / ईयतुः ईयुः / इययिथ, इयेथ ईयथुः ईय / इयाय, इयय ईयिव ईयिम / ईयात् 'दीर्घत्रिच्चयङ्यक्येषु च' इति दीर्घः / उपसर्गात् तु आशिषीणः। 4 / 3 / 107 / ..' उपसर्गात् परेस्येण ईतः विङति यादावाशिषि इस्वो भवति / उदियात् / एता / एष्यति / ऐष्यत् / अगात् अगाताम् अगुः /