________________ सीत् / श्रांक पाके / द्रांक कुत्सितगतौ / पांक रक्षणे पाति / पायात् / पातु / अपात् / पपौ पपिथ, पपाथ / पेयात् / पाता / पास्यति / अपास्यत् / अपासीत् / लाक् आदाने / दांब्क् लवने दासज्ञाऽभावात् प्रनिदाति / ख्यांक प्रकथने / ख्याति / ख्यायात् / ख्यातु / अख्यात् / चख्यौ / ख्यायात्, ख्येयात् / ख्याता / ख्यास्यति / अख्यास्यत् / ___ शास्त्यमूवक्तिख्यातेरङ् / 3 / 4 / 60 / / एभ्यो धातुभ्यः कर्तयद्यतन्यामङ् भवति / आख्यत् आख्यताम् आख्यन् / प्रांक पूरणे / मांक माने। माति / ममौ / मेयात् / माता / नास्यति / अमास्यत् / अमासीत् / इंक स्मरणे अयं प्रायेणाधिपूर्वकः / अध्येति / एति / इतः / इको वा / 4 / 3 / 16 / इंधातोर्विद्भिन्नस्वरादौ शिति परे य् वा भवति / यन्ति, इयन्ति / अधियन्ति, अधीयन्ति / अध्येषि अधीथः अधीथ / अध्येमि अधीवः अधीमः / अधीयात् / अध्येतु, अधीतात् अधीताम् अधीयन्तु, अधियन्तु / अधीहि, अधीतात् अधीतम् अधीत / अध्ययानि अध्ययाव अध्ययाम / एत्यस्तेर्वृद्धिः। 4 / 4 / 30 / / .. इणिकोः अस्तेश्चादेस्तिन्यां विषये वृद्धिर्भवति, न तु माडा। . अध्येत् अध्येताम् अव्यायन् / अध्यैः अध्यतम् अध्यैत /