________________ ( 15) सस्य शषो। 1 / 3 / 61 / सकारस्य स्थाने शकारेण चवर्गेण च योगे शकारः स्यात् / तथा षकारेण टवर्गेण च योगे शकारः स्यात् / कस्+शेते-कश्शेते, कस्+चरति-कश्चरति, सर्पिष्+सु-सर्पिष्षु, कस्+टीकते-कष्टीकते। न शात् / 1 / 3 / 62 / शकारात् परम्य तवर्गस्य चवर्गो न स्यात् / प्रश्नः, अनानि, विश्नः / षि तवर्गस्य / 1 / 3 / 64 / पदान्ते वर्तमानस्य तवर्गस्य स्थाने टवर्गो न स्यात् षकारे / परे / भवान् षष्ठः / लि लौ।१।३ / 65 / . पदान्ते वर्तमानस्य तवर्गस्य स्थाने आसन्नो लकारः स्यात् / तद लुनाति- तल्लुनाति, भवान्+लिखति-भवाल्लिखति / पदान्तादृवर्गादनामनगरीनवतेः / 1 / 3 / 63 / .. __ पदान्ते वर्तमानात् टवर्गात् परस्य नाम्नगरीनवतिवर्जितस्य तवर्गस्य सकारस्य च स्थाने टवर्ग-षकारौ न स्यालाम् / षडनयनम् , षट् सन्ति / पदान्तादिति किम् ? ईट्टे। अनामनगरीनवतेरिति किम् ? षण्णाम् , षण्णगरी, षण्णवतिः / न शि ञ्च / 1 / 2 / 19 /