________________ (16) पदान्ते वतमानस्य नकारस्य शकारे परे ञ्च् इत्यादेशो वा स्यात् / भवान्+शूरः-भवाञ्चशूरः इति जाते -- प्रथमादधुटि' इत्यादिना छत्वे भवाञ्च्छरः इति सिद्धम् / ड्नः सः त्सोऽश्च / 1 / 3 / 18 / पदान्ते वतमानाद् डकाराद् नकाराच्च परस्य सकारस्य स्थाने त्स इत्यादेशः स्यात् / श्चावयवश्चत् सकारो न स्यात् / षड्+सीदन्तिषडत्सीदन्ति, भवान्+साधुः-भवान्त्साधुः / अश्चेति किम् ? षट् श्वोतन्ति / नोऽप्रशानोऽनुस्वारानुनामिको च पूर्वस्याधुटपरे / 1 / 3 / 8 / पदान्तस्थस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य चटतेषु सद्वितीयेषु अधुट्परेषु शपसा यथासंख्यं स्युः, अनुस्वारानुनासिकौ च पूर्वस्य / भवान्+चारु:-भवांश्चारुः, भवाश्चारुः / भवान् छेकः-. भवांश्छेकः, भवाश्छेकः। भवान्+टक:-भवाष्टकः,भवाष्टकः। भवान्+ ठकारः-भवांष्ठकारः, भवाँष्ठकारः / भवान्+तनु:-भवांस्तनुः, भवाँस्तनुः / भवान्+थुडति-भवांस्थुडति, भवाँस्थुडति / प्रशान्वर्जनं किम् / प्रशान्+चरः-प्रशाञ्चरः / अधुडिति किम् ? भवान त्सरुकः। पुमोऽशिव्यघोषेऽख्यागि रः / 1 / 3 / 9 /