________________ (14) अथ व्यञ्जनसन्धिः। धुटस्तृतीयः / 2 / 1 / 76 / पदान्ते वर्तमानस्य धुटः स्थाने तृतीयः स्यात् / वाक+ईशः वामीशः, षट्+अत्र-षडत्र / ... तृतीयस्य पञ्चमे / 1 / 3 / 1 / पदान्ते वर्तमानस्य तृतीयस्य स्थाने पञ्चमे परे आसन्नो वाऽनुनासिक: स्यात् / षड् मम षण्मम / प्रत्यये पञ्चमे नित्यं षण्णाम् , वाङमयम् / - प्रथमादधुटि शश्छः / 1 / 3 / 4 / पदान्ते वर्तमानात प्रथमात् परस्य शकारस्याधुटि परे छो वा स्यात / वाक्+शूरः-वाक्छरः, तत+श्लोकेन-तच्छ्लोकेन / ततो हश्चतुर्थः / 1 / 3 / 3 / पदान्ते वर्तमानात् तृतीयात् परस्य हकारस्य स्थाने पूर्ववर्णसवग--- श्वतुर्थो वा स्यात् / वाग्धीनः, वाग्हीनः / तद् हितं, तदधितम् / तवर्गस्य श्चवर्गष्टवर्गाभ्यां योगे चटवौँ / 1 / 3 / 60 / ___ तवर्गस्य स्थाने शकारेण चवर्गेण च योगे चवर्गः स्यात्, तथा षकारेण टवर्गेण च योगे टवर्गः स्यात / तत्+शेते-तच्छेते, भवान्+शेते-भवाशेते, तत्+चित्रम्-तच्चित्रम् , पेष्+ता-पेष्टा, तत+टीकते-तट्टीकते।