________________ (13) अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, आ एवं नु-तत् / अनाङिति किम् ? आ ईषद् उष्णम्-ओष्णम् , आ आगच्छ-आगच्छ, आ उदकान्ताद्-ओदकान्तात् / ईषदथे क्रियायोगे मर्यादायामभिविधौ आ इत्यव्ययं डित् कथ्यते, अन्यत्र तु अङित् बोध्यम् / . ओदन्तः / 1.2 / 37 / / ओकारान्तश्चादिः स्वरे परेऽपन्धिः स्यात् / अहो अत्र, उताहो अत्र। ___प्लुतोऽनितौ / 1 / 2 / 32 / यत्र स्वाभाविकोचारणापेक्षयाऽधिकोच्चारणं तद् दूरं आमन्त्रणमभिमुखीकरणम् दूरादामन्त्रणार्थे वर्तमानस्य वाक्यस्य हेः प्लुतसंज्ञा ज्ञेया / इतिवर्ने स्वरे परे प्लुतोऽसन्धिः स्यात् / मो देवदत्त 3 एहि, देवदत्त 3 अत्र न्वसि / अनिताविति किम् / सुश्लोक 3 इति-सुश्लोकेति / / इति प्रकृतिभावः समाप्तः /