________________ (12) वौष्ठौत्वोः समासे / 1 / 2 / 17 / . ओष्ठौत्वोः परयोः समासेऽवर्णस्य लुग् वा स्यात् / बिम्ब ओष्ठः-बिम्बोष्ठः, पक्षे बिम्बौष्ठः / स्थूल+ओतुः-स्थूलोतुः, पक्षे स्थूलौतुः। इति सन्धिप्रकरणम् / अथ प्रकृतिभावः। mataxOC अदोमुमी। 1 / 2 / 35 / / अदसशब्दसम्बन्धिनौ मुमी इत्येतावन्धी स्यातां स्वरे परे / अमुमुईचा, अमी अश्वाः। अदस इति किम् ? अमी+अत्र-अम्यत्र, अत्र अमिशब्दो रोगिप्रतिपादकः / ईदेद्विवचनम् / 1 / 2 / 34 / ईत् उत् एत् इत्येवमन्तं द्विवचनान्तं स्वरे परेऽसन्धि स्थात् / मुनी अत्र, भानू एतौ, पचेते इमौ / मणी वेत्यादौ तु इवार्थकस्य वस्य प्रयोगः, न इवशब्दस्य / - चादिः स्वरोऽनाङ् / 1 / 2 / 36 / .. आडवर्जश्चादिरव्ययः स्वरः सरे परेऽसन्धिः स्यात् / अ