________________ (11) ऋकारादौ धातौ परे ऋता सहोपसर्गस्थस्यावर्णस्यार् स्यात्। प्र+ऋच्छति-प्रार्च्छति, उप+ऋच्छति-उपार्च्छति / नामावयवे ऋकारादौ धातौ परे वाऽऽर ज्ञेयः / प्र+ऋषभीयति-प्रार्षभीयति, प्रर्षभीयति / ऋते तृतीयासमासे / 1 / 2 / / / अवर्णस्य ऋते परे तृतीयासमासे ऋकारेण सहार स्यात् / शीतेन+ऋतः-शीतार्तः / तृतीयासमासे इति किम् ? परमश्चासौ ऋतश्च परमर्तः / लतः रल ऋलभ्यां वा / 1 / 2 / 3 / लतः ऋलभ्यां सह यथासंख्यं रल इत्येतावादेशौ वा स्याताम् / ल+ऋकारः-रकारः, ल+लकारः-लकारः / ऋतो वा तौ च / 1 / 2 / 4 / ऋतः ऋलभ्यां सह यथासंख्यं रल इत्येतौ विलक्षणावादेशौ वा स्याताम् / पितृ ऋषभः-पित्रषभः। होतृ+लकारः-होत्लुकारः। तौ च ऋतः ऋलभ्यां सह ऋकारलकारावपि होतृ ऋकारःहोतृकारः, होतृ+लकारः-होत्लकारः, पक्षे पूर्ववत् पितृऋषभ इत्यादयः / ऋस्तयोः / 1 / 2 / 5 / / तयोः लकारऋकारयोः ऋकार-लकाराभ्यां सह ऋ इति दीर्घादेशः स्यात् / ल+ऋषभः-ऋषभः।होतृ लकार:-होतृकारः। ऋकारे लकारे च परे समानस्य ह्रस्वोऽपि वा भवति /